Wednesday, May 9, 2012

Sanskrit Lesson 1

शतृशानच् by aniruddhamalpani

On the कृदन्तः, or varieties of the कृत्प्रत्ययः



On the कृदन्तः, or varieties of the कृत्प्रत्ययः

We have seen that an
उपसर्गः is a prefix that may be placed in front of a धातुः to modulate or even completely alter its meaning.
A कृत्प्रत्ययः on the other hand is a suffix that is appended to a धातुः to form related words that are nouns (संज्ञा) adjectives (विषेशणः) or indeclinables (अव्ययं). The word that results from the process is called a कृदन्तः  - कृत् अन्तः यस्य (a कृत् at the end of which).
There’s a bewildering variety of कृत्प्रत्ययाः. We consider here some of the most important ones for the beginning student.
शतृ-शानच् प्रत्ययौ
The शतृ and शानच् प्रत्ययौ are adjectival कृत्प्रत्ययौ that are used to represent an action occurring at the moment: the beginning student, the sleeping dog, the laughing cow, the rising sun, the wondering look, the decaying tree, the running stream, etc.
The शतृप्रत्ययः is used with परस्मैपदिनः धातवः. It resolves to an अत्-ending adjective – more properly a substantive - that qualifies the doer of the action, and adopts the its gender – masculine, feminine or neuter. For instance the शत्रन्तानि प्रातिपदिकानि formed from the धातुः पठ् are पठन् (पुंलिङ्गं) पठन्ती (स्त्रीलिङ्गं) and पठत् (नपुंसकलिङ्गं).
The शानच् प्रत्ययः is used with आत्मनेपदिनः धातवः and resolves to an adjective that terminates with आन or मान.
Examples of the शतृप्रत्ययः
Consider the following sentences:
बालः गच्छति । बालः वदति । बालः गच्छति वदति च ।
शतृप्रत्यय-प्रयोगेण à गच्छन् बालः वदति
The boy walks. The boy talks. The boy walks and talks.
With the
शतृप्रत्ययः  à The walking boy talks.
बाला क्रीडति । सा भूमौ पतति । बाला क्रीडति भूमौ पतति च ।
शतृप्रत्यय-प्रयोगेण à क्रीडन्ती बाला भूमौ पतति ।
The girl plays. She falls on the ground. The girl plays and falls on the ground.
With the
शतृप्रत्ययः  à The playing girl falls on the ground.
मित्रं तिष्ठति । मित्रं पत्रं लिखति । मित्रं तिष्ठति पत्रं लिखति च ।
शतृ-प्रत्यय-प्रयोगेण à तिष्ठत् मित्रं पत्रं लिखति
The friend stands. The friend writes a letter. The friend stands and writes a letter.
With the
शतृप्रत्ययः  à The standing friend writes a letter.
Observe the terminal characters of the शतृप्रत्ययान्त-विशेषणाः (adjectives formed via the शतृप्रत्ययः ). पुंलिङ्गे such adjectives inflect धीमत्-वत्, स्त्रीलिङ्गे नदी-वत्, but नपुंसकलिङ्गे the nominative and accusative cases follow पठत् पठती पठन्ति and the remaining cases are पुंलिङ्ग-वत्.
शतृप्रत्ययः inflections of पठ् - पुंलिङ्गे
धीमन् पठन्
धीमन्तौ पठन्तौ
धीमन्तः पठन्तः
धीमन्तं पठन्तं
धीमन्तौ पठन्तौ
धीमतः पठतः
धीमता पठता
धीमद्भ्यां पठद्भ्यां
धीमद्भिः पठद्भिः
धीमते पठते
धीमद्भ्यां पठद्भ्यां
धीमद्भ्यः पठद्भ्यः
धीमतः पठतः
धीमद्भ्यां पठद्भ्यां
धीमद्भ्यः पठद्भ्यः
धीमतः पठतः
धीमतोः पठतोः
धीमतां पठताम्
धीमति पठति
धीमतोः पठतोः
धीमत्सु पठत्सु

शतृप्रत्ययः inflections of पठ् - स्त्रीलिङ्गे
नदी पठन्ती
नद्यौ पठन्त्यौ
नद्यः पठन्त्यः
नदीं पठन्तीं
नद्यौ पठन्त्यौ
नदीः पठन्तीः
नद्या पठन्त्या
नदीभ्यां पठन्तीभ्यां
नदीभिः पठन्तीभिः
नद्यै पठन्त्यै
नदीभ्यां पठन्तीभ्यां
नदीभ्यः पठन्तीभ्यः
नद्याः पठन्त्याः
नदीभ्यां पठन्तीभ्यां
नदीभ्यः पठन्तीभ्यः
नद्याः पठन्त्याः
नद्योः पठन्त्योः
नदीनां पठन्तीनाम्
नद्यां पठन्त्यां
नद्योः पठन्त्योः
नदीषु पठन्तीषु

शतृप्रत्ययः inflections of पठ् - नपुंसकलिङ्गे
पठत्
पठती
पठन्ति
पठत्
पठती
पठन्ति
पठता
पठद्भ्यां
पठद्भिः
पठते
पठद्भ्यां
पठद्भ्यः
पठतः
पठद्भ्यां
पठद्भ्यः
पठतः
पठतोः
पठताम्
पठति
पठतोः
पठत्सु


Example: Use the शतृप्रत्ययः to transform the sentence “I saw a peacock” to “I saw a dancing peacock.”
It might be tempting to say:
अहं मयूरम् अपश्यम् । à अहं नृत्यन् मयूरम् अपश्यम् ।
But a little reflection shows that this couldn’t be right. For consider the sentences:
I saw a peacock. I saw a blue peacock.
The translation would obviously be:
अहं मयूरम् अपश्यम् । अहं नीलं मयूरम् अपश्यम् ।
You wouldn’t say:
अहं नीलः मयूरम् अपश्यम् । Neither would you say:  अहं नृत्यन् मयूरम् अपश्यम् ।
You would want to throw
नृत्यन् into the accusative case (नृत्यन्तं) and translate thus:
अहं नृत्यन्तं मयूरम् अपश्यम् ।
But the sentence: “The dancing peacock is in the garden” rightly becomes
नृत्यन् मयूरः उद्याने अस्ति
विवेकः भोजनं खादति । विवेकः भोजनं खादन् अस्ति ।
विवेकः धावति । विवेकः धावन् अस्ति । विवेकः धावन् अपतत् ।
विवेकः चिन्तयति । विवेकः भोजनं खादति । विवेकः चिन्तयन् भोजनं खादति ।
विवेकः भोजनं खादन् चिन्तयति ।
विवेकः अपतत् । विवेकः अश्वात् अपतत् । विवेकः धावतः अश्वात् अपतत् ।
अहं यानम् आरोहम् । अहं चलत् यानम् आरोहम् ।
अर्जुनः नमति । द्रोणः पाठयति । अर्जुनः द्रोणं नमति ।
अर्जुनः पाठयन्तं द्रोणं नमति । पठन् अर्जुनः पाठयन्तं द्रोणं नमति ।
द्रोणः पाठयति । अर्जुनः पठति ।
पाठयन् द्रोणः पठते अर्जुनाय आशीर्वादान् यच्छति ।
अर्जुनः शत्रुं पश्यति । शत्रुं पश्यन् अर्जुनः मन्त्रं स्मरति ।
शत्रुं पश्यन् मन्त्रं च स्मरन् अर्जुनः बाणं वेगेन क्षिपति ।
भक्तः गुरुं पृच्छति । नमन् भक्तः पाठयन्तं गुरुं प्रश्नं पृच्छति ।
छात्रः परीक्षायै गच्छन् ईश्वरं स्मरति ।
खादते बालाय जलं यच्छ ।
चलति याने आसने सम्यक् उपविश ।
चालयता यानचालकेन सह सम्भाषणं मा कुरु ।
परीक्षायै गच्छन्ती छात्रा शिवमन्दिरे भगवते पुष्पम् अर्पयति ।
अहं सत्यं वदामि । अहं सत्यं वदन् अस्मि ।
अहं पठता छात्रेण सह सम्भाषणं न करोमि ।
विवेकः वदति । विवेकः वदन् अस्ति ।
विवेक! पठन्त्या भगिन्या सह सम्भाषणं मा कुरु ।
कर्णः उपविशद्भ्यः भिक्षुकेभ्यः भोजनं वितरति ।
तिष्ठन्तः भिक्षुकाः कुतः न उपविशन्ति ?
अहं कुप्यतः शिक्षकस्य पार्श्वे न गच्छामि ।
चलतः यानस्य वातायनात् हस्तं बहिः मा प्रसारय ।
मूर्खः एव बुक्कतः कुक्कुरस्य निकटम् आगच्छति
स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः । हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः ॥
तमुवाच हृषीकेशः प्रहसन्निव भारत । सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥
Note: In स्त्रीलिङ्ग-शतृ-प्रत्ययाः formed from धातवः belonging to the अदादिगणः, the स्वादिगणः, the क्र्यादिगणः, the तनादिगणः and the जुहोत्यादिगणः  the consonant “न् is dropped. Some variations occur in the forms of पुलिङ्ग-शतृ-प्रत्ययाः as well. They are listed in the table below:

विशेषक्रियापदानि
क्रियापदं
आङ्ग्लभाषायाम्
पुंलिङ्गं
स्त्रीलिङ्गं
नपुन्सकलिङ्गं
ददाति
Gives
ददत्
दतती
ददत्
बिभेति
Fears
बिभ्यत्
बिभ्यती
बिभ्यत्
करोति
Does
कुर्वन्
कुर्वती
कुर्वत्
शृणोति
Listens
शृण्वन्
शृण्वती
शृण्वत्
शक्नोति
can do
शक्नुवन्
शक्नुवन्ती
शक्नुवत्
आप्नोति
obtains
आप्नुवन्
आप्नुवती
आप्नुवत्
चिनोति
picks
चिन्वन्
चिन्वती
चिन्वत्
जानाति
knows
जानन्
जानती
जानत्
क्रीणाति
buys
क्रीणन्
क्रीणती
क्रीणत्
अश्नाति
eats
अश्नन्
अश्नती
अश्नत्
बध्नाति
binds
बध्नन्
बध्नती
बध्नत्
रोदिति
weeps
रुदन्
रुदती
रुदत्

Exercises
शतृप्रत्यय-प्रयोगेण अधोलिखितानि वाक्यानि आङ्ग्लभाषायाः संस्कृते अनुवादयत
The mother sees her son playing in the garden.
The brother sees his sister returning home from school.
The husband praises his wife cooking food.
The teacher calls the child playing in the field.
The student converses with his friend (who is) reading a book.
The school-going girl hums as she walks.
The temple-going women are taking fruit for Shiva.
The man gives money to the begging man/men/woman/women.
The mother gives sugar to the milk-drinking daughter.
The flying Hanuman remembered Ram.
Ravan took away the weeping Sita.
The deer is scared of the chasing lion/lioness/wolves.
The brother gives his laughing sister a glass of orange juice.
The mother gives her writing daughter a new pencil.
The teacher stands in the moving bus.
The student sits in the moving bus.
The student sees the standing teacher.
The teacher sees the sitting student.
The sitting student gives her seat to the standing teacher.
The standing teacher accepts the seat given by the sitting student.
The man looks at the flowing river.
The girl looks at the swimming fish.
The woman looks at the fish swimming in the flowing river.
Look at the white cow among the grazing cows.
Do not jump out of the moving bus.
The boy falls off the rising camel.